Shri Ganesh Avatar Stotram | श्रीगणेशावतारस्तोत्रम् महत्व और लाभ
Shri Ganesh Avatar Stotram | श्रीगणेशावतारस्तोत्रम् आङ्गिरस उवाच । अनन्ता अवताराश्च गणेशस्य महात्मनः । न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १॥ संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २॥ वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३॥ एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥…
