श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव स्तोत्र

तिरश्चामपि चारातिसमवायं समेयुषाम् । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥

सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥

यो महान् पूजितो व्यापी महान् वै करुणामृतम् । श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥ ३ ॥

तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । प्रकाशयते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥

सर्वतोमुखता येन लीलया दर्शिता रणे । रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ॥ ५ ॥

नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु । सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ ६ ॥

यस्माद्विभ्यति वातर्कज्वलनेन्द्राः समृत्यवः । भियं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७ ॥

परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् । ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ॥ ८ ॥

यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः । तत्रोदाहृतये व्याधो मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥

यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः । तमजं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १० ॥

अहंभावं समुत्सृज्य दास्येनैव रघुत्तमम् । भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११ ॥

नित्यं श्रीरामभक्तस्य किंकरा यमकिंकराः । शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२ ॥

इमं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् । पठत्यनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥ १३ ॥

॥ इति श्रीहुनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव संपूर्णम् ॥


मंगल वार की पावन आरती – Tuesdays Aarti : हनुमान जी की विशेष आरती

Shri Hanuman Sathika | हनुमान साठिका का पाठ और उसके लाभ

Shri Hanuman Ji Ki Aarti | हनुमान जी की आरती – आरती कीजै हनुमान लला की …

By Mahakal

Leave a Reply

Your email address will not be published. Required fields are marked *