श्री गणेशाष्टकम् | Ganesha Ashtakam
सर्वे उचुः –
यतोऽनन्तशक्तेरनन्ताश्च लोका यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १ ॥
यतश्चाविरासीज्जगत्सर्वमेत-त्तथाऽब्जासनो विश्वगो विश्वगोप्ता ।
देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ २ ॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ ३ ॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः यतः सम्पदो भक्तसन्तोषदाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ५ ॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतो भक्तिविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एवं सदा तं गणेशं नमामो भजामः ॥ ६ ॥
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७ ॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ८ ॥
श्रीगणेश उवाच –
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्बन्धगतं राजवश्यं न संशयः ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वाञ्छितान् लभते सर्वानेकविंशतिवारतः ॥ १२ ॥
यो जपेत्परया भक्त्या गजाननपरो नरः । एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ १३ ॥
श्री गणेश मंगलाष्टक | Shree Ganesh Mangalashtakam
श्री गणेश द्वादश नाम स्तोत्र |Ganesh Dwadash Naam Stotram