गणपतिस्तवः पाठभेद | Ganapati Stavaha
ऋषिरुवाच ॥
अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥
गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारणं सर्वविद्यानिदानं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥
सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥ ५॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
नेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥ ६॥
तमस्स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥
निजैरोषधीस्तर्पयन्तं कराद्यैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥
प्रकाशस्वरूपं नमो वायुरूपं विकारादिहेतुं कलाधाररूपम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥
प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घादपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत ॥ ११॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्धास्तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने । कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥ १३॥
इति श्रीमद्-गर्ग ऋषिकृतो गणपतिस्तवः सम्पूर्णः ॥
श्री गणेश कवचम् | Sri Ganesha Kavacham: जीवन की रक्षा और समृद्धि का दिव्य कवच मंत्र
श्री गणेशाष्टकम् | Ganesha Ashtakam: श्री गणेश की स्तुति का दिव्य मंत्र